अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शनम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥
The knowledge of scriptures is like eye to all ,because it destroys many doubts and reveals the objects which are beyond the senses. He who devoid of such eye is certainly blind .
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वात् अनर्घ्यत्वात् अक्षयत्वाच्च सर्वदा॥
It is said that in all kinds of wealth , the knowledge is the best wealth. it cannot be taken away, it is valuable, it cannot be destroyed.
हर्तुनं गोचरं याति दत्ता भवति विस्तृता ता । कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया समम् ॥
Education cannot be robbed by thieves. Having given it expands.Even at the end of Yuga it does not get destroyed . What else is like Vidya?
ज्ञातिभिर्वट्यते नैव चोरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥
Vidya cannot be shared by relatives. It cannot be taken away by thief. It does not become less by giving. Gem of knowledge is the greatest health.
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥
Knowledge of weapons and knowledge of scriptures are the two kinds of education to be learnt. The former one is the cause of laughter in the oldage, second comforts always.
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥
Vidya cannot be taken away by thieves, and it cannot be taken away by kings, cannot be divided by brothers and it is not a burden . Even thou it is spent it always increases. So the wealth of knowledge is the best of all wealth.
मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्श्जु कीर्ति किं किं न साधयति कल्पतेव विद्या ॥
Learning protects like amother, guides us on the right path like a father. Like a beloved wife it delights us removing our sorow. It gives us wealth and spreads fame in all directions. Learning is like a Kalpalata ( wishing tree) tree . What cannot be achieved by learning?
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् । विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परम् दैवतम् । विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥
Knowledge is man's many forms, it is a hidden covered treasure, knowledge gives comfort, fame, happiness and is biggest in the big things. It is like a relative in the foreign country. It is the supreme God. It is worshipped in king's court- while wealth is not.One without knowledge is an animal.
सद्द्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमाप्नोति रामरामेति च ब्रुवन् ॥
If one has good education, why should be bother about filling his silly stomoch. Uttering the sweet words ' Ram Ram " even the parrot gets food.
Tuesday, September 29, 2009
Saturday, September 19, 2009
विद्या प्रशंसा vidyaa prashamsaa
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्यतो बुद्धिमायाति क्षयमायाति सञ्चयात् ॥
O Goddess Sarasvati ! This is your peculiar treasure.
By spending it increases and by keeping it perishes.
व्यतो बुद्धिमायाति क्षयमायाति सञ्चयात् ॥
O Goddess Sarasvati ! This is your peculiar treasure.
By spending it increases and by keeping it perishes.
नवरात्री --- दसरा ( Navaraatri--- Dasaraa)
नवरात्री नव दिनानाम् उत्सवः अस्ति । एतस्मिन् वर्षे।(२००९)शरदऋतौ सप्टेम्बरमासे नवरात्रारम्भः १९ दिनाङ्के भवति , नवरात्रोत्थापन २७ दिनाङ्के भवति । तदनन्तरम् विजयादशमी अस्ति ।विजयादशमीउत्सवस्य अन्य नाम " दसरा " अपि अस्ति ।
पूरातनकाले बालकाः दसरादिने विद्यारम्भं कृतवन्तः आसन् । अद्य अपि छात्राः दसरादिने सरस्वतीदेवीं पूजन्ति । भारतदेशे महाराष्ट्रप्रदेशे जनाः शामीवृक्षान् अथवा आपटावृक्षान् गच्छन्ति। तेषाम् वृक्षाणाम् पर्णानि जनाः "सुवर्णपत्राणि " इव मन्यन्ते। जनाः वृक्षं प्रदक्षिणां कुर्वन्ति। अनेका पौराणिक तथा ऐतिहासिक कथाः सन्ति ।
देवाः असूरान् पराजयन्ति । ततः दशमे दिने -- दशरादिने- विजयं प्रशंसन्ति ।
अस्मिनदिने रामः रावणवधं कृतवान् ।
पाण्डवाः शामीवृक्षतः शस्त्राणि प्राप्तवन्तः । युद्धे विजयी अभवन् ।
जयतु संस्कृतम् ।
पूरातनकाले बालकाः दसरादिने विद्यारम्भं कृतवन्तः आसन् । अद्य अपि छात्राः दसरादिने सरस्वतीदेवीं पूजन्ति । भारतदेशे महाराष्ट्रप्रदेशे जनाः शामीवृक्षान् अथवा आपटावृक्षान् गच्छन्ति। तेषाम् वृक्षाणाम् पर्णानि जनाः "सुवर्णपत्राणि " इव मन्यन्ते। जनाः वृक्षं प्रदक्षिणां कुर्वन्ति। अनेका पौराणिक तथा ऐतिहासिक कथाः सन्ति ।
देवाः असूरान् पराजयन्ति । ततः दशमे दिने -- दशरादिने- विजयं प्रशंसन्ति ।
अस्मिनदिने रामः रावणवधं कृतवान् ।
पाण्डवाः शामीवृक्षतः शस्त्राणि प्राप्तवन्तः । युद्धे विजयी अभवन् ।
जयतु संस्कृतम् ।
Subscribe to:
Posts (Atom)